Akhanda Dhuna

Akhanda Dhuna

Friday, March 28, 2014

।। रुद्राध्याय ।।


॥ श्री रुद्रप्रश्नः ॥



॥ न्यासः ॥



अस्य श्री रुद्राद्याय प्रश्न महामन्त्रस्य
अघोर ऋषिः
अनुष्टुप् छन्दः
सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता ॥

नमःशिवायेति बीजम् ।
शिवतरायेति शक्तिः ।
महादेवायेति कीलकम् ।
श्री सांबसदाशिव प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ओं अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।
चातुर्मास्यात्मने मध्यमाभ्यां नमः ।
निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ॥

ओं अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्णमासात्मने शिरसे स्वाहा  ।
चातुर्मास्यात्मने शिकायै वषट्।
निरूढपशुबन्धात्मने कवचाय हुम्।
ज्योतिष्ठोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्राय फट्॥

भूर्भुवसुवरोमिति दिग्बन्धः ॥

॥ ध्यानम् ॥


आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर-
ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्चेच्छिवम् ॥

ब्रह्माण्ड व्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥

ओं ग॒णा॑नां त्वा ग॒णप॑तिóèहवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑ स्सीद॒ साद॑नम् ॥ महागणपतेये नमः ॥
॥ ओं नमो भगवते॑ रुद्रा॒य ॥

हरिः ॐ इडादेवहूर्मनुर्यज्ञनीर्बुहस्पतिरूक्था मदानि शसिषद्‍ विश्वेदेवाः सुक्तवाचः पृथिवी मातर्मा हि सीर्मधुं मनिष्ये, मधु जनिष्ये, मधु वक्ष्यामि, मधुमतीं देवेभ्यो वाचमुध्यास्‍ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु, शोभायै पितरोऽनुमदन्तु ॥ ॐ नमस्ते रुद्र मन्यव उतोत इषवे नम:।
नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नम:॥ यात इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो रुद्र मृडय ॥या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नस्सर्वमिज्जगदयक्ष्मं सुमना असत् ॥अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वान् जम्भयन् सर्वाश्च यातुधान्यः ॥असौ यस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः ।
ये चे माँ रुद्रा अभितो दिक्षु श्रिताः सहस्रशो वैषाँ हेड ईमहे ॥असौ योsवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ॥ उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।अथो ये अस्य सत्वानोsहं तेभ्योsकरं नमः ॥प्रमुञ्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ।याश्च ते हस्त इषवः पराता भगवो वप ॥अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ उत ।अनेशन्नस्येषव आभुरस्य निषङ्गधिः ॥या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयाsस्मान् विश्वतस्त्वमयक्ष्मया परिब्भुज ॥नमस्ते अस्त्वायुधायानातताय धृष्णवे ।उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः ।अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमः । नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमः । नमस्सस्पिञ्जराय त्विषीमते पथीनं पतये नमः । नमो बभ्लुशाय विव्याधिनेन्नानां पतये नमः । नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः । नमो भवस्य हेत्यै जगतां पतये नमः । नमो रुद्रायातताविने क्षेत्राणां पतये नमः । नमस्सूतायाहन्त्याय वनानां पतये नमः । नमो रोहिताय स्थपतये वृक्षाणां पतये नमः । नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमः । नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमः । नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः । नमः कृत्स्नवीताय धावते सत्वनां पतये नमः । नमस्सहमानाय निव्याधिन आव्याधिनीनां पतये नमः । नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमः । नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमः । नमो वञ्चते परिवञ्चते स्तायूनां पतये नमः । नमो निचेरवे परिचरायरण्यानां पतये नमः । नमः सृकाविभ्यो जिघांसद्भ्यो मुष्णतां पतये नमः । नमोसिमद्भ्यो नक्तंचरद्भ्यः प्रकृन्तानां पतये नमः । नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमः । नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमः । नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमः । नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमः । नमोस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमः । नम आसीनेभ्यः शयानेभ्यश्च वो नमः । नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः । नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमः । नमस्सभाभ्यस्सभापतिभ्यश्च वो नमः । नमो अश्वेभ्योश्वपतिभ्यश्च वो नमः । नमो भवाय च रुद्राय च । नमश्शर्वाय च पशुपतये च । नमो नीलग्रीवाय च शितिकण्ठाय च । नमः कपर्दिने च व्युप्तकेशाय च । नमस्सहस्राक्षाय च शतधन्वने च । नमो गिरिशाय च शिपिविष्टाय च । नमो मीढुष्टमाय चेषुमते च । नमो ह्रस्वाय च वामनाय च । नमो बृहते च वर्षीयसे च । नमो वृद्धाय च संवृध्वने च । नमो अग्रियाय च प्रथमाय च । नम आशवे चाजिराय च । नमश्शीघ्रियाय च शीभ्याय च । नम ऊर्म्याय चावस्वन्याय च । नमस्स्रोतस्याय च द्वीप्याय च । नमो ज्येष्ठाय च कनिष्ठाय च । नमः पूर्वजाय चापराजाय च । नमो मध्यमाय चापगल्भाय च । नमो जघन्याय च बुध्नियाय च । नमस्सोभ्याय च प्रतिसर्याय च । नमो याम्याय च क्षेम्याय च । नम उर्वर्याय च खल्याय च । नमः श्लोक्याय चावसान्याय च । नमो वन्याय च कक्ष्याय च । नमः श्रवाय च प्रतिश्रवाय च । नम आशुषेणाय चाशुरथाय च । नमः शूराय चावभिन्दते च । नमो वर्मिणे च वरूथिने च । नमो बिल्मिने च कवचिने च । नमः श्रुताय च श्रुतसेनाय च । नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमः | नम उगणाभ्यस्तृँहतीभ्यश्च वो नमः | नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमः | नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमः नमो गणेभ्यो गणपतिभ्यश्च वो नमः नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमः- नमो रथिभ्योऽरथेभ्यश्च वो नमः- नमो रथेभ्यो रथपतिभ्यश्च वो नमः नमस्सेनाभ्यः सेनानिभ्यश्च वो नमः । नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमः । नमस्तक्षभ्यो रथकारेभ्यश्च वो नमः । नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः । नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमः । नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमः । नमो मृगयुभ्यः श्वनिभ्यश्च वो नमः । नमः श्वभ्यः श्वपतिभ्यश्च वो नमः । नमो दुन्दुभ्याय चाहनन्याय च । नमो धृष्णवे च प्रमृशाय च । नमो दूताय च प्रहिताय च । नमो निषङ्गिणे चेषुधिमते च । नमस्तीक्ष्णेषवे चायुधिने च । नमस्स्वायुधाय च सुधन्वने च । नमस्स्रुत्याय च पथ्याय च । नमः काट्याय च नीप्याय च । नमस्सूद्याय च सरस्याय च । नमो नाद्याय च वैशन्ताय च । नमः कूप्याय चावट्याय च । नमो वर्ष्याय चावर्ष्याय च । नमो मेघ्याय च विद्युत्याय च । नम ईध्रियाय चातप्याय च । नमो वात्याय च रेष्मियाय च । नमो वास्तव्याय च वास्तुपाय च । नमस्सोमाय च रुद्राय च । नमस्ताम्राय चारुणाय च । नमश्शङ्गाय च पशुपतये च । नम उग्राय च भीमाय च । नमो अग्रेवधाय च दूरेवधाय च । नमो हन्त्रे च हनीयसे च । नमो वृक्षेभ्यो हरिकेशेभ्यः । नमस्ताराय । नमश्शंभवे च मयोभवे च । नमश्शङ्कराय च मयस्कराय च । नमश्शिवाय च शिवतराय च । नमस्तीर्थ्याय च कूल्याय च । नमः पार्याय चावार्याय च । नमः प्रतरणाय चोत्तरणाय च । नम आतार्याय चालाद्याय च । नमः शष्प्याय च फेन्याय च । नमस्सिकत्याय च प्रवाह्याय च । नम इरिण्याय च प्रपथ्याय च । नमः किँशिलाय च क्षयणाय च । नमः कपर्दिने च पुलस्तये च । नमो गोष्ठ्याय च गृह्याय च । नमस्तल्प्याय च गेह्याय च । नमः काट्याय च गह्वरेष्ठाय च । नमो हृदय्याय च निवेष्प्याय च । नमः पाँसव्याय च रजस्याय च । नमः शुष्क्याय च हरित्याय च । नमो लोप्याय चोलप्याय च । नम ऊर्व्याय च सूर्म्याय च । नमः पर्ण्याय च पर्णशद्याय च । नमोऽपगुरमाणाय चाभिघ्नते च । नम आक्खिदते च प्रक्खिदते च । नमोवः किरिकेभ्यो देवानाँ हृदयेभ्यः । नमो विक्षीणकेभ्यः (देवानाँ हृदयेभ्यः) नमो विचिन्वत्केभ्यः (देवानाँ हृदयेभ्यः) नम आनिर्हतेभ्यः (देवानाँ हृदयेभ्यः) नम आमीवत्केभ्यः(देवानाँ हृदयेभ्यः) द्रापे अन्धसस्पते दरिद्रन्नीललोहित । एषां पुरुषाणामेषां पशूनां माभेर्मारो मो एषां किञ्च नाममत् । या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ इमाँ रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् । यथा नः शमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ मृडानो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते । यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ॥ मानो महान्तमुतमानो अर्भकं मान उक्षन्तमुत मा न उक्षितम् । मानोवधीः पितरं मोत मातरं प्रिया मानस्तनुवो रुद्र रीरिषः ॥ मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः । वीरान्मानो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥ आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु । रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म यच्छ द्विबर्हाः ॥ स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् । मृडा जरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ॥ परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः । अवस्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ॥ मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ विकिरिद विलोहित नमस्ते अस्तु भगवः । यास्ते सहस्रँ हेतयोन्यमस्मन्निवपन्तु ताः ॥ सहस्राणि सहस्रधा बाहुवोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखाकृधि ॥ सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् । तेषाँ सहस्रयोजनेऽवधन्वानि तन्मसि ॥ अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि । नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः । नीलग्रीवाः शितिकण्ठा दिवँ रुद्रा उपश्रिताः । ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ।
ये भूतानामधिपतयो विशिखासः कपर्दिनः । ये अन्नेषु विविद्ध्यन्ति पात्रेषु पिबतो जनान् । ये पथां पथिरक्षय ऐलबृदा यव्युधः । ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः । य एतावन्तश्च भूयाँसश्च दिशो रुद्रा वितस्थिरे । तेषाँ सहस्रयोजनेऽवधन्वानि तन्मसि ॥ नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्तेनो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ॥ तमुष्टुहि यः स्विषुस्सुधन्वा यो विश्वस्य क्षयति भेषजस्य । यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥ अयं मे हस्तो भगवानयं मे भगवत्तरः । अयं मे विश्वभेषजोयँ शिवाभिमर्शनः ॥ ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानवयजामहे ॥ मृत्यवे स्वाहा- मृत्यवे स्वाहा ॥ ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ॥
॥हरिः ॐ नमः शिवाय ॥

॥ चमकप्रश्नः ॥

अग्ना॑विष्णू सजोष॑से॒मा वर्ध॑न्तु वां॒ गिरः॑ ।
द्युम्नैर्वाजे॑भि॒राग॑तम् ।
वाज॑श्च मे प्रस॒वश्च॑ मे॒
प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒
स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒
ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे
व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒
वाक्च॑ मे॒ मनश्च॑ मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒
बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे
ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे
ऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूóè॑षि च मे॒
शरीरा॑णि च मे ॥ १॥

ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒
भाम॑श्च मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे
वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे
वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒
जग॑च्च मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒
मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे
सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे
भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं च म ऋ॒द्धं च॑ म॒
ऋद्धि॑श्च मे क्~लु॒प्तं च॑ मे॒ क्~लुप्ति॑श्च मे म॒तिश्च मे
सुम॒तिश्च॑ मे ॥ २॥

शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒
काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒
वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे
य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒
विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒
सूश्च॑ मे प्र॒सूश्च॑ मे॒ सी॑रं च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒
ऽमृ॑तं च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे
दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒
शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ ३॥

ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे
घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे
कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म औ॒द्भि॑द्यं च मे
र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे
वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे
पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मे
ऽन्नं॑ च॒ मेऽक्षुच्च मे व्री॒हिय॑श्च मे॒ यवा॓श्च मे॒ माषा॓श्च मे॒
तिला॓श्च मे मु॒द्गाश्च॑ मे खल्वा॓श्च मे गो॒धूमा॑श्च मे
म॒सुरा॓श्च मे प्रि॒यंग॑वश्च॒ मेऽणवश्च मे
श्या॒माका॓श्च मे नी॒वारा॓श्च मे ॥ ४॥

अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒
सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे
ऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे
लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒
ओष॑धयश्च मे कृष्टप॒च्यं च॑ मेऽकृष्टप॒च्यं च॑ मे
ग्राम्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां
वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒
वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे
ऽर्थश्च॑ म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥ ५॥

अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे
सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे
पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒
त्वष्टा॑ च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒
विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑  च म॒ इन्द्र॑श्च मे
म॒रुत॑श्च  म॒ इन्द्र॑श्च मे॒ विश्वे॑ च  मे दे॒वा इन्द्र॑श्च मे
पृथि॒वी च॑  म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं च  म॒ इन्द्र॑श्च मे॒
द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे
मूर्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ ६॥

अ॒óè॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॓भ्यश्च॒ मेऽधि॑पतिश्च म
उपा॒óè॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे
मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे
शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे
ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मे
ऽतिग्रा॒ह्या॓श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे
मरुत्व॒तीया॓श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे
सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे
पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ ७॥

इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदिश्॑च मे॒ धिष्णि॑याश्च मे॒
स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म
उपर॒वाश्च॑ मे ऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे
वाय॒व्या॑नि च मे पूत॒भृच्च॑ मे आधव॒नीय॑श्च म॒
आग्नी॓ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे
पुरो॒डाशा॓श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे
स्वगाका॒रश्च॑ मे ॥ ८॥

अ॒ग्निश्च॑ मे ध॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे
प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे ऽदि॑तिश्च मे॒
दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो दिश॑श्च मे
य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒
यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्रतं च॑ मे
ऽहोरा॒त्रयो॓र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् ॥ ९॥

गर्भा॓श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्॒य॒वी च॑ मे
दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे
पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे
तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म
उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च मे वे॒हच्च॑ मे
ऽन॒ड्वाञ्च॑ मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पतां
प्रा॒णो य॒ज्ञेन कल्पतामपा॒नो य॒ज्ञेन॑ कल्पतां
व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒óè॒
श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒
वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां
य॒ज्ञो य॒ज्ञेन॑ कल्पताम्  ॥ १०॥

एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒
नव च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पंच॑दश च मे
स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑ विóèशतिश्च मे॒
त्रयो॑विóèशतिश्च मे॑ पंच॑विóèशतिश्च मे
स॒प्तवि॒óè॑शतिश्च मे॒ नव॑विóèशतिश्च म॒
एक॑त्रिóèशच्च मे॒ त्रय॑स्त्रिóèशच्च मे॒
चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे
विóèश॒तिश्च॑ मे॒ चतु॑र्विóèशतिश्च मे॒ऽष्टाविóè॑शतिश्च मे॒
द्वात्रिóè॑शच्च मे॒ षट्त्रिóè॑शच्च मे चत्वरि॒óè॒शच्च॑ मे॒
चतु॑श्चत्वारिóèशच्च॑ मे॒ऽष्टाच॑त्वारिóèशच्च मे॒
वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒
व्यश्नि॑यश्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒
भुव॑न॒श्चाधि॑पतिश्च ॥ ११॥
इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पतिरुक्थाम॒दानि॑ शóèसिष॒द्विश्वे॑दे॒वाः सू॓क्त॒वाचः॒ पृथि॑वीमात॒र्मा मा॑ हिóèसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासóè शुश्रू॒षेण्यां॓ मनु॒ष्ये॑भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥ ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥